CBSE-IX-Sanskrit

03: गोदोहनम्

digibest Free NCERT Solutions with no signup needed

Note: Please signup/signin free to get personalized experience.

Note: Please signup/signin free to get personalized experience.

10 minutes can boost your percentage by 10%

Note: Please signup/signin free to get personalized experience.

 
  • #
    Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम् Textbook Questions and
    Answer s
    अभ्यासः
  • Qstn #1
    एकपदेन उत्तरं लिखत - (क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म? (ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म? (ग) कुम्भकारः घटान् किमर्थ रचयति? (घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म? (ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
    Ans : (क) काशीविश्वनाथमन्दिरम् (ख) त्रिशत/त्रिशतम् (ग) जीविकाहेतोः (घ) मोदकानि (ङ) चन्दनः
  • #1-क
    मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
    Ans : काशीविश्वनाथमन्दिरम्
  • #1-ख
    उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
    Ans : त्रिशत/त्रिशतम्
  • #1-ग
    कुम्भकारः घटान् किमर्थ रचयति?
    Ans : जीविकाहेतोः
  • #1-घ
    कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
    Ans : मोदकानि
  • #1-ङ
    नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
    Ans : चन्दनः
  • Qstn #2
    पूर्णवाक्येन उत्तरं लिखत -
  • #2-क
    मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
    Ans : मल्लिका चन्दनश्च मासपर्यन्तं धेनु घासादिकं गडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलक धारयतः रात्रौ नीराजनेनापि तोषयतः।
  • #2-ख
    कालः कस्य रसं पिबति?
    Ans : कालः क्षिप्रमक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः रसं पिबति।
  • #2-ग
    घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
    Ans : पुत्रिके। नाह पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।
  • #2-घ
    मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?
    Ans : मल्लिकया दुग्धहीनताम् दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्।
  • #2-ङ
    मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?
    Ans : मासपर्यन्तं धेनोः अदोहनस्य ग्रामप्रमुखस्य गृहे त्रिशत सेटकमितं दुग्धप्रदानस्य लोभः कारणमासीत्।
  • Qstn #3
    रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
  • #3-क
    मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
    Ans : मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म?